Matangi Hridaya Stotra

मतंगी हृदय स्तोत्र

मतंगी हृदय स्तोत्र देवी मतंगी के हृदय स्वरूप की स्तुति है — यानी उनके मूल भाव, आंतरिक शक्तियों और तांत्रिक तत्वों का सार। यह स्तोत्र साधक को मतंगी देवी की आंतरिक शक्ति से जुड़ने का माध्यम बनता है। यह स्तोत्र अत्यंत प्रभावशाली है और आमतौर पर उच्च कोटि की तांत्रिक उपासना, वाणी-सिद्धि, कलात्मक सफलता, और बाधा निवारण हेतु किया जाता है।

एकदा कौतुकाविष्टा भैरवं भूतसेवितम् ।
भैरवी परिपप्रच्छ सर्वभूतहिते रता ॥ १ ॥

श्री भैरव्युवाच ।

भगवन्सर्वधर्मज्ञ भूतवात्सल्यभावन ।
अहं तु वेत्तुमिच्छामि सर्वभूतोपकारम् ॥ २ ॥

केन मन्त्रेण जप्तेन स्तोत्रेण पठितेन च ।
सर्वथा श्रेयसां प्राप्तिर्भूतानां भूतिमिच्छताम् ॥ ३ ॥

श्री भैरव उवाच ।

शृणु देवि तव स्नेहात्प्रायो गोप्यमपि प्रिये 
कथयिष्यामि तत्सर्वं सुखसम्पत्करं शुभम् ॥ ४ ॥

पठतां शृण्वतां नित्यं सर्वसम्पत्तिदायकम् ।
विद्यैश्वर्यसुखाव्याप्तिमङ्गलप्रदमुत्तमम् ॥ ५ ॥

मातङ्ग्या हृदयं स्तोत्रं दुःखदारिद्र्यभञ्जनम् ।
मङ्गलं मङ्गलानां च अस्ति सर्वसुखप्रदम् ॥ ६ ॥

ओं अस्य श्रीमातङ्गीहृदयस्तोत्रमन्त्रस्य दक्षिणामूर्तिरृषिः –
विराट् छन्दः – श्री मातङ्गी देवता – ह्रीं बीजं – क्लीं शक्तिः – ह्रूं कीलकं ।
सर्ववाञ्छितार्थसिद्ध्यर्थे जपे विनियोगः ॥

ऋष्यादिन्यासः ।

दक्षिणामूर्तिऋषये नमः शिरसि ।
विराट्छन्दसे नमः मुखे ।
मातङ्गीदेवतायै नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
हूं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
इति ऋष्यादिन्यासः ॥

करन्यासः ।

ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ह्रूं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।

ओं ह्रीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् 
ओं ह्रीं नेत्रत्रयाय वौषट् ।
ओं क्लीं कवचाय हुम् ।
ओं ह्रूं अस्त्राय फट् ।

॥ ध्यानम् ॥

श्यामां शुभ्रां सुफालां त्रिकमलनयनां रत्नसिंहासनस्थां
भक्ताभीष्टप्रदात्रीं सुरनीकरकरासेव्यकञ्जाङ्घ्रियुग्माम् ।
नीलाम्भोजातकान्तिं निशिचरनिकरारण्यदावाग्निरूपां
मातङ्गीमावहन्तीमभिमतफलदां मोदिनीं चिन्तयामि ॥ ७ ॥

नमस्ते मातङ्ग्यै मृदुमुदिततन्वै तनुमतां
परश्रेयोदायै कमलचरणध्यानमनसां ।
सदा संसेव्यायै सदसि विबुधैर्दिव्यधिषणैः
दयार्द्रायै देव्यै दुरितदलनोद्दण्ड मनसे ॥ ८ ॥

परं मातस्ते यो जपति मनुमेवोग्रहृदयः
कवित्वं कल्पानां कलयति सुकल्पः प्रतिपदम् ।
अपि प्रायो रम्याऽमृतमयपदा तस्य ललिता
नटी चाद्या वाणी नटन रसनायां च फलिता ॥ ९ ॥

तव ध्यायन्तो ये वपुरनुजपन्ति प्रवलितं
सदा मन्त्रं मातर्नहि भवति तेषां परिभवः ।
कदम्बानां माल्यैरपि शिरसि युञ्जन्ति यदि ये
भवन्ति प्रायस्ते युवतिजनयूथस्ववशगाः ॥ १० ॥

सरोजैः साहस्रैः सरसिजपदद्वन्द्वमपि ये
सहस्रं नामोक्त्वा तदपि च तवाङ्गे मनुमितं ।
पृथङ्नाम्ना तेनायुतकलितमर्चन्ति प्रसृते
सदा देवव्रातप्रणमितपदाम्भोजयुगलाः ॥ ११ ॥

तव प्रीत्यैर्मातर्ददति बलिमादाय सलिलं
समत्स्यं मांसं वा सुरुचिरसितं राजरुचितम् ।
सुपुण्यायै स्वान्तस्तव चरणप्रेमैकरसिकाः
अहो भाग्यं तेषां त्रिभुवनमलं वश्यमखिलम् ॥ १२ ॥

लसल्लोलश्रोत्राभरणकिरणक्रान्तिललितं
मितस्मेरज्योत्स्नाप्रतिफलितभाभिर्विकरितं ।
मुखाम्भोजं मातस्तव परिलुठद्भ्रूमधुकरं
रमा ये ध्यायन्ति त्यजति न हि तेषां सुभवनम् ॥ १३ ॥

परः श्रीमातङ्ग्या जपति हृदयाख्यः सुमनसाम्-
अयं सेव्यः सुद्योऽभिमतफलदश्चातिललितः ।
नरा ये शृण्वन्ति स्तवमपि पठन्तीममनुनिशं
न तेषां दुष्प्राप्यं जगति यदलभ्यं दिविषदाम् ॥ १४ ॥

धनार्थी धनमाप्नोति दारार्थी सुन्दरीः प्रियाः ।
सुतार्थी लभते पुत्रं स्तवस्यास्य प्रकीर्तनात् ॥ १५ ॥

विद्यार्थी लभते विद्यां विविधां विभवप्रदां ।
जयार्थी पठनादस्य जयं प्राप्नोति निश्चितम् ॥ १६ ॥

नष्टराज्यो लभेद्राज्यं सर्वसम्पत्समाश्रितं ।
कुबेरसमसम्पत्तिः स भवेद्धृदयं पठन् ॥ १७ ॥

किमत्र बहुनोक्तेन यद्यदिच्छति मानवः ।
मातङ्गीहृदयस्तोत्रपठनात्सर्वमाप्नुयात् ॥ १८ ॥

॥ इति श्री दक्षिणामूर्तिसंहितायां  मातंगी हृदय स्तोत्र सम्पूर्णम् ॥