Swami Stotra

श्रीस्वामीसमर्थस्तोत्रम्

स्वामिन्नमस्तेऽक्कलकोटवासिन् समर्थनाम्नेऽपरनारसिंह ।
त्रीशावतार त्रितयार्तिहारिन् प्रचण्डकाय प्रणयैकशुल्क ॥ १॥

प्रपन्नकल्पद्रुम पापदाव स्फुल्लिङ्गनेत्रोदकशील साधो ।
आजानुबाहोऽगमलील योगिन् ज्ञ स्वैरचारिन्नतितुष्ट तिष्ये ॥ २॥

दिग्वस्त्रभूष प्रविदग्धपूषन् कारुण्यसिन्धो नतदीनबन्धो ।
मां बालरङ्गं कृपयोद्धर त्वं जहीह मां मा भवसिन्धुपोत ॥ ३॥

स्तोत्रं स्वामीसमर्थस्य चतुर्विंशतिनाममृत ।
यः पठेत्प्रयतो भक्त्या निर्भयः स सुखी भवेत् ॥ ४॥


इति श्री दत्तपादारविन्दमिलिन्द ब्रह्मचारिपाण्डुरङ्ग अथवा
रङ्गावधूतमहाराजविरचितं चतुर्विंशतिनाम
श्रीस्वामीसमर्थस्तोत्रं सम्पूर्णम् ॥