Ardhanareeswara Stotram

Ardhanareeswara Stotram

अर्धनारीश्वर स्तोत्रम् चाम्पेयगौरार्धशरीरकायैकर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ कस्तूरिकाकुङ्कुमचर्चितायैचितारजःपुञ्जविचर्चिताय ।कृतस्मरायै विकृतस्मरायनमः शिवायै च नमः शिवाय ॥ झणत्क्वणत्कङ्कणनूपुरायैपादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गदायनमः शिवायै च नमः शिवाय ॥ विशालनीलोत्पललोचनायैविकासिपङ्केरुहलोचनाय ।समेक्षणायै विषमेक्षणायनमः शिवायै च नमः शिवाय ॥ मन्दारमालाकलितालकायैकपालमालाङ्कितकन्धराय ।दिव्याम्बरायै च दिगम्बरायनमः शिवायै च नमः शिवाय ॥ अम्भोधरश्यामलकुन्तलायैतटित्प्रभाताम्रजटाधराय ।निरीश्वरायै निखिलेश्वरायनमः शिवायै च नमः शिवाय ॥ प्रपञ्चसृष्ट्युन्मुखलास्यकायैसमस्तसंहारकताण्डवाय ।जगज्जनन्यै जगदेकपित्रेनमः … Read more