कर्तवीर्य अर्जुन स्तोत्रम्
कर्तवीर्य अर्जुन स्तोत्रम् एक प्राचीन और प्रभावशाली स्तोत्र है जो राजा कर्तवीर्य अर्जुन को समर्पित है। यह स्तोत्र विशेष रूप से ऋण मुक्ति (loan removal), धन प्राप्ति, राज्य, प्रभाव और बल की प्राप्ति के लिए पढ़ा जाता है। कर्तवीर्य अर्जुन भगवान विष्णु के अंशावतार माने जाते हैं, जिनके पास हजार भुजाएँ (सहस्रबाहु) थीं और वे परम पराक्रमी, दानवीर तथा धर्मात्मा राजा थे।
इस स्तोत्र का पाठ करने से जीवन में वित्तीय संकट दूर, शत्रुओं पर विजय, और सम्मान की प्राप्ति होती है। यह व्यापारियों, कर्ज़ से पीड़ित लोगों और बल-शौर्य चाहने वाले साधकों के लिए अत्यंत फलदायक माना जाता है।
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥ १॥ कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २॥ रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३॥ सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः । आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४॥ कार्तवीर्य महाबाहो सर्वदिष्टविबर्हण । सर्वं रक्ष सदा तिष्ठ दुष्टान्नाशय पाहि माम् ॥ ५॥ सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् । चोरादि-दुष्टभय-नाशं इष्टदं तं ध्यायेत् महाबल-विजृम्भित-कार्तवीर्यम् ॥ ६॥ यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् । यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥ ७॥ हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् । वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥ ८॥ ॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् ॥
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्तिवाः ।
यज्ञदानतपोयोगश्रुतवीर्यजयादिभिः ॥
पञ्चाशीतिसहस्राणि ह्यव्याहतबलःसमाः ।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे ।
जयध्वजः शूरशेनो वॄषभो मधुरूर्जितः ॥
कार्तवीर्यः सहस्राक्षः कृतवीर्यसुतः बली ।
सहस्रबाहुः शत्रुघ्नः रक्तवासा धनुर्धरः ॥ १॥
रक्तगन्धो रक्तमाल्यः राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः स्मरेत् ॥ २॥
अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः ।
सम्पदस्तस्य जायन्ते जनास्तस्य वशो सदा ॥ ३॥
॥ इति कार्तवीर्य द्वादशनाम स्तोत्रम् सण्पूर्णम् ॥



.jpg)