भवानी भुजङ्ग प्रयात स्तोत्रम् (Bhavani Bhujanga Prayata Stotram) एक अद्भुत स्तोत्र है जो देवी पार्वती के भवानी स्वरूप की स्तुति में रचा गया है। यह स्तोत्र संस्कृत में रचा गया है और इसमें भुजङ्ग प्रयात छन्द (भुजंग प्रायात छंद) का प्रयोग किया गया है, जो एक विशेष प्रकार की छंद संरचना है जिसमें लय और गति साँप के समान होती है (इसलिए इसे “भुजंग” कहा गया है)।
Bhavani Bhujang Prayat Stotram
भवानीभुजङ्गप्रयातस्तोत्रम्
श्री गणेशाय नमः ।
षडाधारपङ्केरुहान्तर्विराज-
त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १॥ (चिदानन्दरूपाम्)
ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराजत्
त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥२॥ (त्रिकोणे निषण्णां)
क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
प्रभालीढलाक्षार्द्रपादारविन्दम् । (पादाब्जयुग्मम्)
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३॥
सुषोणाम्बराबद्धनीवीविराज-
न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
वली रम्यते रोमराजिं भजेऽहम् ॥ ४॥ (वलीरम्ब)
लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
पमश्री स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे पूर्णदुग्धाभिरामं तवेदं (दुग्धपूर्णाभिरामं)
महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५॥
शिरीषप्रसूनोल्लसद्बाहुदण्डै-
र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो-
ज्ज्वलद्भिर्स्फुरन्तीं भजे श्रीभवानीम् ॥ ६॥ (ज्ज्वलद्भिर्लसन्तीं)
शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
धरस्मेरवक्त्रारविन्दश्रियं ते । (वक्त्रारविन्दां सुशान्तम्))
सुरत्नावलीहारताटङ्कशोभां
भजे सुप्रसन्नामहं श्रीभवानीम् ॥ ७॥ (महासुप्रसन्नां भजे श्रीभवानीम्)
सुनासापुटं पद्मपत्रायताक्षं
यजन्तः श्रियं दानदक्षं कटाक्षम् ।
ललाटोल्लसद्गन्धकस्तूरिभूषो-
ज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ८॥
(सुनासापुटं सुन्दरभ्रूललाटं
तवैष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटे लसद्गन्धकस्तूरिभूषं
स्फुरच्छ्रीमुखाम्भोजमीड्Eऽहमम्ब ॥ ८॥)
चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां (चलत्कुन्तलान्तर्भ्रमद्भृङ्गवृन्दां)
घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् ।
स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा-
विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९॥
स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे (स्फुरत्वम्ब डिम्भस्य)
सदा वाङ्मयं सर्वतेजोमयं च ।
इति श्रीभवानिस्वरूपं तदेवं
प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०॥
गणेशाणिमाद्याखिलैः शक्तिवृन्दैः (गणेशाभिमुख्या)
स्फुरच्छ्रीमहाचक्रराजोल्लसन्तीम् ।
(गणेशाणिमाद्याखिलैः शक्तिवृन्दैर्वृतां वै स्फुरच्चक्रराजोल्लसन्तीम्)
परां राजराजेश्वरीं त्वा भवानीं (राजराजेश्वरि त्रैपुरि त्वां)
शिवाङ्कोपरिस्थां शिवां भावयेऽहम् ॥ ११॥ (भावयामि)
त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप- (त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप)
स्त्वमाकाशभूर्वायवस्त्वं चिदात्मा । (स्त्वमाकाशभूवायस्त्वं महत्त्वम्)
त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं (प्रपञ्चोऽस्ति सर्वं)
सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२॥ (त्वमानन्द … भजेऽहम्)
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवासि माता पिताऽसि त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बुद्धि- (बन्धु-)
र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३॥ (… १४)
श्रुतीनामगम्यं सुवेदागमाद्यैर्- (सुवेदागमाज्ञ्या)
महिम्नो न जानाति पारं तवेदम् । (जानन्ति)
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४॥ (क्षमस्वेदमत्र … १३))
शरण्ये वरेण्ये सुकारुण्यपूर्णे (सुकारुण्यमूर्ते)
हिरण्योदराद्यैरगम्येऽतिपुण्ये । (हिरण्योदराद्यैरगण्ये सुपुण्ये)
भवारण्यभीतं च मां पाहि भद्रे (भवारण्यभीतेश्च)
नमस्ते नमस्ते नमस्ते भवानि ॥ १५॥
इमामन्वहं श्रीभवानीभुजङ्ग- (इतीमां महच्छ्री)
स्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै । (स्तुतिं यः पठेद्भक्तियुक्तश्च)
स्वकीयं पदं शाश्वतं चैव सारं (वेदसारं)
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६॥
(भवानी भवानी भवानी त्रिवार-
मुदारम् मुदा सर्वदा ये जपन्ति ।)
न शोकम् न मोहम् न पापं न भीतिः
कदाचित्कथंचित्कुतश्चज्जनानाम् ॥ १७॥)
॥ इति श्रीमच्छङ्कराचार्यविरचितं भवानीभुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॥



.jpg)