कूर्म स्तोत्रम् – Kurma Stotram

कूर्म स्तोत्रम् (Kurma Stotram) एक पवित्र स्तुति है जो भगवान कूर्म अवतार (कछुए के रूप में श्रीहरि विष्णु के अवतार) को समर्पित है। यह स्तोत्र भगवान विष्णु के उस रूप की स्तुति करता है जब उन्होंने समुद्र मंथन के समय मंदराचल पर्वत को अपने पीठ पर धारण किया था।

Kurma Stotram
कूर्म स्तोत्रम्

मुनिभिः कृतं कूर्मस्तोत्रम्
सूत उवाच ।
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।
तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ १॥

मुनयः ऊचुः ।
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।
नारायणाय विश्वाय वासुदेवाय ते नमः ॥ २॥

नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।
माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ ३॥

सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ॥ ४॥

ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।
आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ ५॥

नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।
पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ ६॥

नमः साङ्ख्याय योगाय केवलाय नमोऽस्तु ते ।
धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ॥ ७॥

नमस्ते व्योमरूपाय महायोगेश्वराय च ।
परावराणां प्रभवे वेदवेद्याय ते नमः ॥ ८॥

नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।
नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ ९॥

नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।
वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ १०॥

स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।
नमो योगाधिगम्याय योगिने योगदायिने ॥ ११॥

देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।
भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ॥ १२॥

अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।
श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ॥ १३॥

सर्गश्च प्रतिसर्गश्च ब्रह्माण्डस्यास्य विस्तरः ।
त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ॥ १४॥

त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।

इति कूर्मपुराणे उत्तरभागे षट्चत्वारिंशाध्यायान्तर्गतं

मुनिभिः कृतं कूर्मस्तोत्रं समाप्तम् ।


Posted

in

by

Tags: