श्री परापूजा स्तोत्र (Para Puja Stotra) एक अत्यंत आध्यात्मिक एवं दार्शनिक स्तोत्र है, जिसकी रचना श्रीमद् आदि शंकराचार्य द्वारा की गई मानी जाती है। यह स्तोत्र एक अद्वैत दृष्टिकोण से रचा गया है, जिसमें यह समझाया गया है कि सच्ची पूजा केवल बाहरी कर्मकांड नहीं, बल्कि आत्मा के द्वारा आत्मा की ही पूजा करना है, क्योंकि ब्रह्म (परम सत्य) और आत्मा एक ही है |
Para Puja Stotra
रीपरा-पूजा-प्रकाश-स्तोत्रम्
मुखं बिन्दुर्मिश्रो ह्यरुण-धवलं बिन्दु-युगकम्
कुच-द्वन्द्वं योनिर्भगवति! च ते हार्द्ध-सु-कला ।
सुसामास्यं वा ऋग्यजुरुभयकं ते स्तन-युगम्
ततोऽथर्वो योनिस्तव जननि हे मन्मथ-कले! ॥ १॥
ततः संसारेऽस्मिन् गगनमतुलं शब्द-गुणकम्
पुनः स्पर्शा-वेद्यं पवनमपि रूपञ्च दहनम् ।
रसाढ्यं पानीयं तदनु धरणीं गन्ध-गुणकाम्
सु-नाद-ब्रह्माख्यौ प्रकृति-पुरुषौ प्राजनयताम् ॥ २॥
विमर्शाख्ये शक्ते! भवसि हि परा त्वं क्षिति-तले
महेच्छा पश्यन्ती मणिपुरग-वामा भगवति! ।
तथा ज्येष्ठा ज्ञाना हृदय-गमना मध्यम-शिवा
क्रिया-शक्ती रौद्री मुख-कुहरगा वैखरि-कला ॥ ३॥
पुरोक्तेच्छा-शक्तिः त्रिपुर-ललिता हादि-मतगा
महोग्रा ज्ञानाख्या जगति विदिता सादि-मतगा ।
क्रिया-शक्तिः काली कलन-निरता कादि-मतगा
परे! एकैव त्वं जयसि मत-भेदैः त्रिपुर-युक् ॥ ४॥
त्रि-विद्यानां नूनं ख-पवन-कृशान्वब् वसु-मती-
समेतानां जातास्तनव इह षड्धा भुवनगाः ।
प्रजातं षट्-चक्रं शुभमपि सहस्रार-सहितं
षडाम्नायात्मा त्वं रस-तनु-धराऽभर्हि ललिते! ॥ ५॥
परे! एका सृष्टि-स्थिति-लय-विधाने पुनरहो
अनाख्या भासायां त्वमसि ललनाचार-निरता ।
समालभ्यावस्थां विविध-मत-भेदोप-जनिताम्
शनैः पञ्ची-भूत्वा विलससि सदैव त्रि-भुवने ॥ ६॥
१- पूर्वाम्नाय
रसारं तद्-बाह्ये शुभ-वसु-दलाढ्यं सु-कमलम्
सरोजान्यद् दिव्यं विधु-दल-युतं तद् बहिरथो ।
चतुर्द्वारोपेतं विलसति यदा यन्त्रमतुलम्
तदा त्वं भो मात! भवसि भुवनेशी हर-नुते ॥ ७॥
परे प्रागाम्नाये जगति विदिता राजस-वपुः
शुभाकारा भूत्वा सृजसि भुवना विश्वमखिलम् ।
तदा शम्भ्वाकारो भवति स परो धाम-विभव-
स्तयोरंशोत्पन्नो विधिरपि स सृष्टिं वित-नुते ॥ ८॥
सु-पूर्वे राजीवे स्मित-मुख-सरोजां पृथु-कुचाम्
शिवाकारां शान्तां तरुण-रवि-भासं हर-वधूम् ।
कराम्भोजैः पाशाङ्कुश-वर-महाभीति-दधतीम्
भजेऽहं रत्नाङ्गीं शश-धर-धरां रम्य-भुवनाम् ॥ ९॥
त्रिकोणं वह्न्यस्र-त्रयमपि बहिस्र-त्र्यस्तमपरं
बहिः पद्मं दिव्यं वसु-दल-युतं भूमि-सदनम् ।
शिरःपङ्क्ति-ज्वालैः सह भवति यन्त्रं सुविमलम्
तदा श्यामा-काली त्वमसि परमाद्ये भगवति! ॥ १०॥
२- दक्षिणाम्नाय
ततोऽवाच्याम्नाये त्वमपि परमे सत्त्व-गुणका
महा-श्यामा भूत्वा निखिल-भुवनं रक्षसि सदा ।
महा-कालाकारः प्रभवति तदा श्रीपर-शिव-
स्तयोरंशोत्पन्नो भरति च जगद्विष्णुरखिलम् ॥ ११॥
अवाच्यब्जे नौमि स्मर-हर-शवस्थां त्रि-नयनाम्
महा-श्यामा-कालीं जल-धर-निभां मुक्त-चिकुराम् ।
ललज्जिह्वां नग्नां शव-कर-परीधान-सुकटिम्
नृ-मुण्डं खड्गञ्चाभयमपि वरञ्चैव दधतीम् ॥ १२॥
३- पश्चिमाम्नाय
परे बिन्दुः शुद्धो विमलतरयोन्यन्तरगतो
बहिः षट्-कोणख्यं वसु-छदनकं केसर-युतम् ।
सरोजं भू-चक्र-त्रितयमपि दिव्यं सु-विमलम्
यदा यन्त्रं भाति त्वमसि हि तदा श्री-कुल-कुजा ॥ १३॥
प्रतीच्याम्नाये त्वं कुल-जन-नुते श्रीपर-शिवे!
कुजा भूत्वा सर्वं हरसि तमसा स्वीकृत-तनुः ।
कुजेशाकारः सः प्रभवति तदा श्रीपर-शिव-
स्तयोरंशोत्पन्नः प्रलयति स रुद्रोऽखिल-जगत् ॥ १४॥
प्रतीच्यम्भोजे वै कुच-भर-नतां बर्बर-शिखाम्
मृगेन्द्राङ्गे रूढां मद-मुदित-वक्त्रां त्रि-नयनाम् ।
नृ-मुण्डानां मालामपि परिदधानां कुल-कुजाम
सहस्रार्काभां त्वां ह्यभय-वरदां नौमि जननि! ॥ १५॥
४- उत्तराम्नाय
स-बिन्दुस्त्र्यस्राढ्यं शर-नवक-वृत्ताष्ट-दलकैः
सु-वृत्ताष्टार्केन्द्राभिध-नलिन-काष्टाशनि-युतम् ।
शिरश्शूल-ज्वाला-पितृ-वन-युतं यन्त्रमतुलम्
यदा भाति त्वं वै भवसि भुवि गुह्या भगवति! ॥ १६॥
उदीच्याम्नाये त्वं मनु-तनुरनाख्या त्रि-गुणका
परे गुह्या भूत्वाऽऽचरसि हि तिरोधानमखिलम् ।
नृसिंहाकारः सन् निवसति तदा श्रीपर-शिव-
स्तयोरंशोत्पन्नेश्वर इह पिधानं प्रकुरुते ॥ १७॥
मृगेन्द्रेभाश्वर्क्षाख्य-मकर-गरुत्मानव-शिव-
प्लवङ्गेशी-वक्त्रां श्रुति-शर-भुजैरायुध-धराम् ।
उदीच्याम्भोजे त्वां विधु-सकल-चूडां घन-निभाम्
भजेऽहं गुह्येशीमभिनव-वयस्कां भगवति! ॥ १८॥
५- ऊर्ध्वाम्नाय
स-बिन्दु-त्र्यष्टादिग्युगल-मनु-कोणाष्ट-विधुक-
त्रि-वृत्त-ज्यागेह-त्रितय-युत-यन्त्रं लसति ते ।
तदा कामेशी त्वं जननि! निखिलाम्नाय-निलया
परे! श्रीविद्याख्या भवसि कुल-पूज्या क्रम-युता ॥ १९॥
सदा-शिवः
महोर्ध्वाख्ये भाषा सु-वचन-मनो-गम्य-तनु-युक्
परे! त्वं श्रीर्भूत्वाऽऽचरसि निखिलानुग्रहमलम् ।
तदा निर्वाणाख्यः प्रभवति परः काम-तनुमान्
तयोरंशोत्पन्नः शमनुत-नुते पञ्च-वदनः ॥ २०॥
महोर्ध्वाम्नाये त्वां क्रमग-निखिलाम्नाय-जननीम्
हठाचारैर्लभ्यां कहस-मनु-रूपां त्रि-पथगाम् ।
हकारार्धां सार्धामकुल-कुलमार्गाभ्यसनिनीम्
महा-पञ्च-प्रेतोपरि रुचिरसिंहासन-गताम् ॥ २१॥
सहस्रादित्याभामरुण-वासनां मन्द्र-हसनाम्
त्रि-नेत्रास्यां पाशाङ्कुश-कुसुम-बाणैक्षवधराम् ।
निशानाथोत्तंसां जित-मदन-रूपाञ्च युवतीम्
भजेऽहं श्रीविद्ये! त्रिपुर-ललितां श्रीपद-युताम् ॥ २२॥
६- अधराम्नाय
कदाचिद्-बिन्दूनां विविध-ललना-सार-मथनात्
सु-षट्-कोणं स्पष्टं वसु-दल-युतं रम्य-कमलम् ।
चतुर्द्वारोपेतं यदि भवति यन्त्रं पर-शिवे!
तदा योगेशी त्वं भवसि किल वज्रेति पद-युक् ॥ २३॥
पुरोक्ताम्नायेभ्यः प्रभवदधराम्नाय-विषये
परे वज्रा भूत्वा लससि भुवने चीन-मतगा ।
तदाऽक्षोभ्याकारः प्रभवति परो नाग-तनु-मान्
षडाम्नायाश्चेत्थं गिरिश-रस-वक्त्रैः समुदिताः ॥ २४॥
अधः पद्मे वज्रां त्रि-वदन-युतां मुक्त-चिकुराम्
सु-रत्नाढ्यां सिंहाजिनमभिदधानामरुणभाम् ।
कपालं खट्वाङ्गं डमरुमपि कर्त्रीं श्रुति-करै-
र्धृतांंत्वामीडेऽहं मनसि शवगां नृत्य-चरणाम् ॥ २५॥
अधश्चीनार्च्या त्वं यम-दिशि कुलागार-ललनात्
प्रसन्ना वै पूर्वे मनुजपबलाच्चोत्तर-दिशि ।
शिवाबल्यर्च्याऽऽद्ये! सु-मममममैः पश्चिम-दिशि
स्फुरस्यूर्ध्वे मातः कुलज-मनसि न्यास-सहितैः ॥ २६॥
अवैत्येकाम्नायं यदि कुल-जनो भाव-सहितः
स मुक्तः स्याद् भुक्त्वा भुवि विविध-भोगान् भगवति ।
पुनः किं वक्तव्यं जननि! चतुराम्नाय-विदुषो
महोर्ध्वाम्नायज्ञः कथमिह भवेत् स्तुत्य इतरैः ॥ २७॥
इति श्रीपरापूजाप्रकाशस्तोत्रं सम्पूर्णम् ।