“Shree Shiv Mahimna Stotra” is a wonderful and ancient stotra that deeply expresses the glory of Lord Shiva. It was composed by a Gandharva named Pushpadant who had accidentally stolen flowers from the Shivalinga. To correct his mistake and get the blessings of the Lord, he composed the Shiv Mahimna Stotra. It describes the infinite form of Lord Shiva, Mahashakti, Karuna, Vishwaroop and his Triloki Nath form. The seeker reads it every morning or night at the time of worship of Lord Shiva. This stotra also pleases the 11 Rudra forms of Lord Shiva, which brings peace, prosperity and disease prevention in life.
Why should one read Shree Shiv Mahimna Stotra?
It is believed that the chanting of this stotra is very dear to Lord Shiva. The words in it directly assimilate the glory of Lord Shiva and infuse devotion and penance within the seeker. Those who are suffering from Pitra Dosh, Kalsarp Dosh, Grah Badha or negative energy, its recitation gives special benefits to them. It is also considered helpful in getting rid of debt, mental fear, disease and enemy obstacles. Its regular recitation helps in concentrating the mind and increases the sense of confidence and peace in the seeker.
What is the best time to read Shree Shiv Mahimna Stotra?
The best time to read it is in the morning Brahmamuhurta or in the evening by lighting a lamp in front of the Shivling. Especially on Monday, Pradosh Vrat, Mahashivratri or Shravan month, its recitation is considered to be many times more fruitful. Those who read it to fulfill a special wish, can recite it till 11 or 21 Mondays. If not possible, then you can recite it with a calm mind on any day, because Lord Shiva needs devotion.
Who can read Shree Shiv Mahimna Stotra?
Any devotee can read it with devotion. Especially for those who are facing obstacles, disease, mental fear or debt in their lives.Children can also listen to it after understanding its meaning. You can chant the stotra in the worship place of the house or in the Shiva temple.
Beej Mantra
Om Namah Shivaya
Om Rudraya Namah
Om Maheshwaray Swaha
Shree Shiv Mahimna Stotra
श्री शिवमहिम्न स्तोत्र
पुष्पदंत उवाच
महिम्नः पारन्ते परमविदुषो यद्यसदृशी।
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः॥
अथावाच्यः सर्वः स्वमतिपरिमाणावधि गृणन्।
ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥1॥
अतीतः पन्थानं तव च महिमा वाङ्मनसयो:।
रतदव्यावृत्या यं चकितमभिधत्ते श्रुतिरपि।।
स कस्य स्तोतव्यः कतिविधिगुणः कस्य विषयः।
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥2॥
मधुस्फीता वाचः परमममृतं निर्मितवत:।
स्तवब्रह्मन्किवागपि सुरगुरोविस्मय पदम्।।
मम त्वेतां वाणों गुणकथनपुण्येन भवतः।
पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥3॥
तवैश्वर्यं तत्तज्जगदुदयरक्षा प्रलयकृत्।
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासुतनुषु ॥
अभव्यानामस्मिन्वरद रमणीयामरमणीम्।
विहन्तु व्याक्रोशीं विदधत इहैके जडधियः ॥4॥
किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनम्।
किमाधारो धाता सृजति किमुपादान इति च॥
अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः।
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः॥5॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां।
मधिष्ठातारं किं भवविधिरनादृत्य भवति॥
अनीशो वा कुर्याद्भुवनजनने कः परिकरो।
यतोमन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥6॥
त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति।
प्रभिन्न प्रस्थाने परमिदमदः पथ्यमिति च॥
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां।
नृमाणेको गम्यस्त्वमसि पयसामर्णव इव ॥7॥
महोक्षः खट्वांग म्परशुरजिनं भस्म फणिनः।
कपालंचेतीयत्तव वरद तन्त्रोपकरणम्॥
सुरास्तां तामृद्धिं दधति तु भवद्भ्द्ध प्रणिहिताम्।
न हि स्वात्मारामं विषय मृगतृष्णा भ्रमयति।। 8।।
ध्रुवं कश्चित्सर्वं सकलमपरस्त्वद्ध वमिदम्।
परोधौव्याध्रौव्ये जगति गदति व्यस्तविषये॥
समस्तेऽप्येतस्मिन्पुरमथन तैविस्मित इव।
स्तुवज्ञ्जिद्देमि त्वां न खलु ननु धृष्टा मुखरता।।9।।
तवैश्वर्यं यत्नाद्यदुपरिविरंचिर्हरिरधः।
परिच्छेत्तु यातावनलमनलस्कन्धवपुषः॥
ततोभक्ति श्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्।
स्तयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति।।10।।
अयत्नादापाद्यत्रिभुवनमवैरव्यतिकरम्।
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान्॥
शिरः पद्मश्रेणोरचितचरणाम्भोरु हबलेः।
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर वियस्फूर्जितमिदम् ॥11॥
अमुष्य त्वत्सेवा समधिगतसारं भुजवनम्।
बलाकैलासेऽपि त्वदधिवसतौविक्रमयतः॥
अलभ्या पातालेऽप्यलसचलितांगु ष्ठशिरसि।
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः।।12।।
यदृद्धि सुत्राम्णो वरद! परमोच्चैरपि सती।
मधश्चक्र बाणः परिजनविधैयस्त्रिभुवनः॥
नतच्चित्रं तस्मिन्वरिवसिरित्वच्चरणयोः।
न कस्याप्युन्नत्यं भवति शिरसस्त्वय्यवनतिः ॥13॥
अकाण्ड: ब्रह्माण्ड क्षयचकितदेवासुरकृपा।
विधेयस्याऽसीद्यस्त्रिनयन विषं संह तवतः ।।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो।
विकारोऽपिश्लाघ्यो भुवनभयभगंव्यसनिनः ॥14॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे।
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्।
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः।। 15।।
मही पादाघाताद्व्रजति सहसा संशयपदम्।
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्॥
मुहुर्योदौस्थ्यं यात्यनिभृतजटाताडिततटा।
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥ 16॥
वियद्व्यापीतारागणगुणितफेनोद्गमरुचिः।
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते॥
जगद्वीपाकारं जलधिवलयं तेन कृतमिति।
त्यनेनैवोन्नेयं धृतमहिमदिव्यं तव वपुः।।17।।
रथः क्षोणी यन्ता शतधृतिनगेन्द्रो धनुरथा।
रथांगेचन्द्राकौं रथचरणपाणिः शर इति॥
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः।
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः।।18।।
हरिस्ते साहस्त्र कमलबलिमाधाय पदयो।
र्यदेकोने तस्मिन्निजमुदहर कमलम्।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा।।
त्रयाणां रक्षायं त्रिपुरहर जागति जगताम् ॥19॥
क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमताम् ।
क्व कर्म प्रध्वस्तं फलतिपुरुषाराधनमृते ॥
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवम् ।
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः॥20॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां।
सृवीणामात्विज्यं शरणद सदस्याः सुरगणाः।।
क्रतुन षस्त्वत्तः क्रतुफल विधानव्यसनिनो।
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः॥ 21॥
प्रजानाथं नाथ प्रसभमभिकं स्त्वां दुहितरम्।
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।।
धनुः पाणेर्यातं दिवमपि सपत्नाकृतममुम्।
त्रसन्तन्तेऽद्यापि त्यजति न मृगव्याधरभसः॥22॥
स्वलावण्याशंसा धृतधनुषमह वाय तृणवत्।
पुरः प्लुष्टं दृष्ट्वापुरमथन पुष्पायुधमपि॥
यदिस्त्रैणं देवो यमनिरतदेहार्ध-घटनाद्।
अवैति त्वामद्धावत वरद मुग्धा युवतयः॥23॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः।
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः।।
अमंगल्यं शीलं तव भवतु ना मैवमखिलम्।
तथापि स्मर्तॄणां वरद परमं मंगलमसि।। 24।।
मनः प्रत्यविचत्त सविधमवधायात्तमरुतः।
प्रहष्यद्रोमाणः प्रमदसलिल्लोत्संगितदृशः।।
यदालोक्याह लावं ह्रद इव निमज्ज्यामृतमये।
यधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥25॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वंहुतवह।
स्त्वमापरत्वं व्योमत्वमुधरणिरात्मा त्वमिति च ॥
परिच्छिन्नामेवं त्वयि परिणता ब्रिभ्रतिगिरम्।
न विद्मस्तत्तत्वंवयमिह तु यत्त्वं न भवसि ॥26॥
त्रयीं तिस्रो वृत्तिस्त्रि भुवनमथोत्रीनपिसुरां।
नकाराद्यं र्वर्णैस्त्रिभिरभिदधत्तीर्णविकृतिः।।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः।
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥27॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महां स्तथा।
भीमेशानाविति यदभिधानाष्टकमिदम् ॥
अमुष्मिन्प्रत्येकं प्रविचरति देवः श्रुतिरपि।
प्रियायास्मैधाम्नेप्रणिहितनमस्योऽस्मि भवते ॥28॥
नमोनेदिष्ठाय प्रियदव दविष्ठाय च नमो।
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः॥
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो।
नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः ॥29॥
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः ।
प्रबलतम से तत्संहारे हराय नमो नमः ॥
जनसुखकृते सत्त्वोद्रिक्तौमृडाय नमो नमः ।
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥30॥
कृशपरिणतिचेतः क्लेशवश्वं क्व चेदम् ।
क्व च तव गुणसीमोल्लङ् घिनीशश्ववृद्धिः।।
इति चकितममन्दीकृत्य मां भक्तिराधाद्।
वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥31॥
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे ।
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी।।
लिखति यदि गृहीत्वा शारदा सर्वकालं।
तदपि तव गुणानामीश पारं न याति ॥32॥
असुरसुरमुनीन्द्रं रचितस्येन्दुमौले।
ग्रंथित गुणमहिम्नो निर्गुणस्येश्वरस्य।
सकलगुणवरिष्ठः पुष्पदन्ताभिधानो।।
रुचिरमलघुवृत्तेः स्तोत्रमेतच्चकार ॥33॥
अहरहरनवद्य धूर्जटेः स्तोत्रमेतत्।
पठति परमभक्त्या शुद्धचित्तः पुमान्य:।।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र।
प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥34॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥35॥
दीक्षादानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम् ॥ 36॥
कुसुमदशननामा सर्वगन्धर्वराजः।
शशिधरवरमौलेर्देवदेवस्य दासः।।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्।
स्तवनमिदमकार्षीवृदिव्यदिव्यं महिम्नः ॥37॥
सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुम्।
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेतः।।
ग्रजति शिवसमीपं किन्नरैः स्तूयमानः।
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥38॥
आसमाप्त मिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्।
अनौपम्यं मनोहारि सर्व मीश्वर वर्णनम् ॥39॥
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥40॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥41॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥42॥
श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन।
स्तोत्रेण किल्विष-हरेण हर-प्रियेण ।।
कण्ठस्थितेन पठितेन समाहितेन।
सुप्रीणितो भवति भूतपतिर्महेशः ॥43॥
।। इति श्री शिवमहिम्नः स्तोत्रं समाप्तम् ।।
Benefits of reading Shree Shiv Mahimna Stotra:
- Any kind of fear and planetary defects are pacified.
- Pitra Dosh and Kaal Sarp Dosh are cured.
- With the blessings of Lord Shiva, one gets the boon of long life and good health.
- The mind of the seeker remains stable in every situation.
Frequently Asked Questions
Does it pacify planetary defects?
It is believed that its regular recitation pacifies Kalsarp Dosh, Pitru Dosh and planetary obstacles.
Should it be recited on special occasions?
Mahashivratri, the month of Sawan, Pradosh Vrat — its recitation is especially fruitful on these days.
.jpg)


