तंत्र दोष शांति स्तोत्र – Tantra Dosh Shanti Stotra

तंत्र दोष शांति स्तोत्र एक धार्मिक/आध्यात्मिक प्रार्थना है जिसका उद्देश्य तंत्र संबंधी दोषों या बाधाओं को दूर करना और शांति स्थापित करना होता है। तंत्र का अर्थ है आध्यात्मिक विधि या अभ्यास, जिसमें मंत्र, यंत्र, पूजा, और साधना शामिल होती है। जब किसी व्यक्ति या स्थान में तंत्र दोष उत्पन्न होता है, तो यह नकारात्मक ऊर्जा, बाधाएं, या परेशानियां ला सकता है। ऐसे दोषों को शांति करने के लिए तंत्र दोष शांति स्तोत्र पढ़ा या जाप किया जाता है।

Tantra Dosh Shanti Stotra
तंत्र दोष शांति स्तोत्र

नश्यन्तु प्रेतकुष्माण्डा नश्यन्तु दूष का नराः ।
साधकानां शिवाः सन्तु आम्नायपरिपातिनाम् ॥ 1 ॥

जयन्ति मातरः सर्वा जयन्ति योगिनीगणाः ।
जयन्ति सिद्धडाकिन्यो जयन्ति गुरुपङ्क्तयः ॥ 2 ॥

जयन्ति साधकाः सर्वे विशुद्धाः साधकाश्च ये ।
जयन्ति पूज समयाचारसम्पन्ना का नराः ॥ 3 ॥

नन्दन्तु चाणिमासिद्धाः नन्दन्तु कुलपालकाः ।
देवताः सर्वे तृप्यन्तु इन्द्राद्या वास्तुदेवताः ॥ 4 ॥

चचन्द्रसूर्यादयो देवास्तृप्यन्तु भक्तिततः ।
मम नक्षत्राणि ग्रहा योगा करणा राशयश्च ये ॥ 5 ॥

सर्वे ते सुखिनो यान्तु सर्पा नश्यन्तु पक्षिणः ।
पशवस्तुरगाचैव पर्वताः कन्दरा गुहाः ॥ 6 ॥

ऋषयो ब्राह्मणाः सर्वे शान्ति कुर्वन्तु सर्वदा ।
स्तुता मे विदिताः सन्तु सिद्धास्तिष्ठन्तु पूजकाः ॥ 7 ॥

ये ये पापधियस्सुदूषणरता मन्निन्दकाः पूजने ।
वेदाचारविमर्दनेष्टहृदया भ्रष्टष्य ये साधकाः ।
दृष्टवा चक्रमपूर्वमन्दहृदया ये कोलिका दूषकास्ते ।
ते यान्तु विनाशमत्र समय श्री भैरवस्याज्ञया ॥ 8 ॥

द्वेष्टारः साधकानां सदैवाम्नायदूषकाः ।
डाकिनीनां मुखे यान्तु तृप्तास्तत्पिशितैः स्तुताः ॥ 9 ॥

ये वा शक्तिपरायणा: शिवपरा ये वैष्णवाः साधवः ।
सर्वस्मादखिले सुराधिपमजं सेव्यं सुरेः सन्ततम् ॥ 10 ॥

शक्तिं विष्णुधिया शिवं च सुधिया श्री कृष्णबुद्धया च ये ।
सेवन्ते त्रिपुरं त्वभेदमतयो गच्छन्तु मोक्षन्तु ते ॥ 11 ॥

शत्रवो नाशमायान्तु मम निन्दाकरच ये ।
द्वेष्टारः साधकानां च ते नश्यन्तु शिवाज्ञया ॥ 12 ॥

ततः परं पठेत स्तोत्रमानन्दस्तोत्रमुत्तमम् ॥

॥ इति तन्त्र शान्ति स्तोत्र सम्पूर्णम् ॥


Posted

in

by

Tags: