Vasudev Krit Krishna Stotra

वासुदेव कृत श्रीकृष्ण स्तोत्र (Vasudeva Krit Krishna Stotram) एक भक्तिपूर्ण स्तोत्र है जिसे भगवान श्रीकृष्ण के पिता श्री वासुदेव ने रचा था। यह स्तोत्र श्रीकृष्ण के दिव्य स्वरूप, अवतार की महिमा, और उनके विश्व-कल्याणकारी कार्यों का वर्णन करता है।

Vasudev Krit Krishna Stotra
वासुदेव कृत श्रीकृष्ण स्तोत्र

श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् ।

ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥

स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् ।

निर्लिप्तं परमं ब्रह्म बीजरुपं सनातनम् ॥ २ ॥

स्थूलात् स्थूलतरं व्याप्तमतिसूक्ष्ममदर्शनम् ।

स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥

शरीरवन्तं सगुणमशरीरं गुणोत्करम् ।

प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥

सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् ।

सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभो ॥ ५ ॥

अनन्तः स्तवनेsशक्तोsशक्ता देवी सरस्वती ।

यं स्तोतुमसमर्थश्र्च पञ्चवक्त्रः षडाननः ॥ ६ ॥

चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा ।

गणेशो न समर्थश्र्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥

ऋषयो देवताश्र्चैव मुनीन्द्रमनुमानवाः ।

स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८ ॥

श्रुतयः स्तवनेsशक्ताः किं स्तुवन्ति विपश्र्चितः ।

विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥

वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।

भक्तिदास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १० ॥

विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ।

सङकटं निस्तरेत् तूर्णं शत्रुभीत्या प्रमुच्यते ॥ ११ ॥ ॥

॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे वसुदेवकृतं श्रीकृष्णस्तोत्रं संपूर्णम् ॥


Posted

in

by

Tags: