Ganapati Stavaha

गणपति स्तवः (Ganapati Stavaha) एक स्तुति है जिसमें भगवान गणेश की महिमा का गुणगान किया गया है। यह स्तोत्र श्रद्धा, भक्ति और विनय भाव से गणपति को समर्पित किया जाता है ताकि वे भक्त के जीवन में विघ्नों को दूर करें और ज्ञान, बुद्धि, सफलता प्रदान करें।

श्रीगणपतिस्तवः

श्री गणेशाय नमः ॥

ब्रह्मविष्णुमहेश्वरा ऊचुः।
अजं निर्विकल्पं निराकारमेकं निरालम्बमद्वैतमानन्दपूर्णम् ।
परं निर्गुणं निर्विशेषं निरीहं परं ब्रह्मरूपं गणेशं भजेम ॥ १॥

गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् ।
मुनिध्येयमाकाशरूपं परेशं परं ब्रह्मरूपं गणेशं भजेम ॥ २॥

जगत्कारणं कारणाज्ञानहीनं सुरादिं सुखादिं युगादिं गणेशम् ।
जगद्व्यापिनं विश्ववन्द्यं सुरेशं परं ब्रह्मरूपं गणेशं भजेम ॥ ३॥

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् ।
जगत्कारकं सर्वविद्यानिधानं सदा ब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥

सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् ।
अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नताः स्मः ॥ ५॥

तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् ।
अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नताः स्मः ॥ ६॥

तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् ।
मुनिज्ञानकारं विदूरे विकारं सदा ब्रध्नरूपं गणेशं नताः स्मः॥ ७॥

निजैरौषधैस्तर्पयन्तं करोघैः सुरौघान्कलाभिः सुधास्राविणीभिः ।
दिनेशांशुसन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नताः स्मः ॥ ८॥

प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् ।
अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नताः स्मः ॥ ९॥

प्रधानस्वरूपं महत्तत्त्वरूपं धरावारिरूपं दिगीशादिरूपम् ।
असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नताः स्मः ॥ १०॥

त्वदीये मनः स्थापयेदङ्घ्रियुग्मे जनो विघ्नसङ्घान्न पीडां लभेत ।
लसत्सूर्यबिम्बे विशाले स्थितेऽयं जनो ध्वान्तबाधां कथं वा लभेत ॥ ११॥

वयं भ्रामिताः सर्वथाऽज्ञानयोगादलब्ध्वा तवाङ्घ्रिं बहून्वर्षपूगान् ।
इदानीमवाप्तास्तवैव प्रसादात्प्रपन्नान्सदा पाहि विश्वम्भराद्य ॥ १२॥

ब्रह्मोवाच ।
एवं स्तुतो गणेशस्तु सन्तुष्टोऽभून्महामुने ।
कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३॥

फलश्रुतिः ।
गणेश उवाच ।
यदर्थं क्लेशिता यूयं यदर्थमिह चागताः ।
प्रीतोऽहमनया स्तुत्या वरं मत्तो वृणीत तम् ॥ १४॥

कृतञ्च मम यत् स्तोत्रं भवद्भिर्भावितात्मभिः ।
स्तोत्रराजमितिख्यातं भविष्यति ममाज्ञया ॥ १५॥

इदं यः पठेत् प्रातरुत्थाय धीमान् स्त्रिसन्ध्यं सदा भक्तियुक्तो विशुद्धः ।
स पुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले ॥ १६॥

इति गणेशपुराण उपासनाखण्डे त्रयोदशोऽध्याये
ब्रह्मविष्णुमहेश्वराकृतो गणपतिस्तवः सम्पूर्णः ॥


Posted

in

by

Tags: