श्री नरसिंह पंचामृत स्तोत्रम् (Sri Narasimha Panchamrutha Stotram) भगवान नरसिंह, विष्णु के उग्र और रक्षक रूप की स्तुति में रचित एक अत्यंत प्रभावशाली और भक्तिपूर्ण स्तोत्र है। यह स्तोत्र पाँच भागों (पंच-अमृत) के रूप में भगवान के शौर्य, करुणा, रूप, शक्ति और भक्तवत्सलता का वर्णन करता है।
श्री नरसिंह पंचामृत स्तोत्रम्
अहॊबिलं नारसिंहं गत्वा रामः प्रतापवान् ।
नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥
गॊविन्द कॆशव जनार्दन वासुदॆव विश्वॆश विश्व मधुसूदन विश्वरूप ।
श्री पद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमॊ नमस्तॆ ॥ २ ॥
देवाः समस्ताः खलु यॊगिमुख्याः गन्धर्व विद्याधर किन्नराश्च ।
यत्पादमूलं सततं नमन्ति तं नारसिंहं शरणं गतॊऽस्मि ॥ ३ ॥
वॆदान् समस्तान् खलु शास्त्रगर्भान् विद्याबलॆ कीर्तिमतीं च लक्ष्मीम् ।
यस्य प्रसादात् सततं लभन्तॆ तं नारसिंहं शरणं गतॊऽस्मि ॥ ४ ॥
ब्रह्मा शिवस्त्वं पुरुषॊत्तमश्च नारायणॊऽसौ मरुतां पतिश्च ।
चन्द्रार्क वाय्वग्नि मरुद्गणाश्च त्वमॆव तं त्वां सततं नतॊऽस्मि ॥ ५ ॥
स्वप्नॆऽपि नित्यं जगतां त्रयाणाम् स्रष्टा च हन्ता विभुरप्रमॆयः ।
त्राता त्वमॆकस्त्रिविधॊ विभिन्नः तं त्वां नृसिंहं सततं नतॊऽस्मि ॥ ६ ॥
राघवॆणकृतं स्तॊत्रं पञ्चामृतमनुत्तमम् ।
पठन्ति यॆ द्विजवराः तॆषां स्वर्गस्तु शाश्वतः ॥ ७ ॥
.png)


